Mahabharata

Vana Parva, Adhyaya 116

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 116, Verse 1

स वेदाध्ययने युक्तो जमदग्निर्महातपाः

तपस्तेपे ततो देवान्नियमाद्वशमानयत्

Mahabharata

Vana Parva, Adhyaya 116, Verse 2

स प्रसेनजितं राजन्नधिगम्य नराधिपम्

रेणुकां वरयामास स च तस्मै ददौ नृपः

Mahabharata

Vana Parva, Adhyaya 116, Verse 3

रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः

आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया

Mahabharata

Vana Parva, Adhyaya 116, Verse 4

तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः

सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः

Mahabharata

Vana Parva, Adhyaya 116, Verse 5

फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै

रेणुका स्नातुमगमत्कदाचिन्नियतव्रता

Mahabharata

Vana Parva, Adhyaya 116, Verse 6

सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम्

ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया

Mahabharata

Vana Parva, Adhyaya 116, Verse 7

क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्

ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका

Mahabharata

Vana Parva, Adhyaya 116, Verse 8

व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना

प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत

Mahabharata

Vana Parva, Adhyaya 116, Verse 9

स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्

धिक्शब्देन महातेजा गर्हयामास वीर्यवान्

Mahabharata

Vana Parva, Adhyaya 116, Verse 10

ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः

आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा

Mahabharata

Vana Parva, Adhyaya 116, Verse 11

तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्

न च ते जातसंमोहाः किंचिदूचुर्विचेतसः

Mahabharata

Vana Parva, Adhyaya 116, Verse 12

ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः

मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः

Mahabharata

Vana Parva, Adhyaya 116, Verse 13

ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा

तमुवाच महामन्युर्जमदग्निर्महातपाः

Mahabharata

Vana Parva, Adhyaya 116, Verse 14

जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः

तत आदाय परशुं रामो मातुः शिरोऽहरत्

Mahabharata

Vana Parva, Adhyaya 116, Verse 15

ततस्तस्य महाराज जमदग्नेर्महात्मनः

कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम्

Mahabharata

Vana Parva, Adhyaya 116, Verse 16

ममेदं वचनात्तात कृतं ते कर्म दुष्करम्

वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा

Mahabharata

Vana Parva, Adhyaya 116, Verse 17

स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै

पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा

Mahabharata

Vana Parva, Adhyaya 116, Verse 18

अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत

ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः

Mahabharata

Vana Parva, Adhyaya 116, Verse 19

कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो

अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत

Mahabharata

Vana Parva, Adhyaya 116, Verse 20

तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत्

स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम्

Mahabharata

Vana Parva, Adhyaya 116, Verse 21

प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात्

जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान्

Mahabharata

Vana Parva, Adhyaya 116, Verse 22

आगताय च रामाय तदाचष्ट पिता स्वयम्

गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत्

Mahabharata

Vana Parva, Adhyaya 116, Verse 23

स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्

तस्याथ युधि विक्रम्य भार्गवः परवीरहा

Mahabharata

Vana Parva, Adhyaya 116, Verse 24

चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान्

सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः

Mahabharata

Vana Parva, Adhyaya 116, Verse 25

अर्जुनस्याथ दायादा रामेण कृतमन्यवः

आश्रमस्थं विना रामं जमदग्निमुपाद्रवन्

Mahabharata

Vana Parva, Adhyaya 116, Verse 26

ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्

असकृद्राम रामेति विक्रोशन्तमनाथवत्

Mahabharata

Vana Parva, Adhyaya 116, Verse 27

कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर

घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः

Mahabharata

Vana Parva, Adhyaya 116, Verse 28

अपक्रान्तेषु चैतेषु जमदग्नौ तथागते

समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः

Mahabharata

Vana Parva, Adhyaya 116, Verse 29

स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम्

अनर्हन्तं तथाभूतं विललाप सुदुःखितः