Vana Parva, Adhyaya 115, Verse 1
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान्
भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान्
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः
रामस्यानुचरं वीरमपृच्छदकृतव्रणम्
कदा नु रामो भगवांस्तापसान्दर्शयिष्यति
तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम्
आयानेवासि विदितो रामस्य विदितात्मनः
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः
अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी
भवाननुगतो वीरं जामदग्न्यं महाबलम्
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः
स भवान्कथयत्वेतद्यथा रामेण निर्जिताः
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना
कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः
गाधीति विश्रुतो लोके वनवासं जगाम सः
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा
ऋचीको भार्गवस्तां च वरयामास भारत
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम्
उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम्
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम्
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम
न चापि भगवान्वाच्यो दीयतामिति भार्गव
देया मे दुहिता चेयं त्वद्विधाय महात्मने
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम्
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम्
सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम्
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा
ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा
लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः
यथाकामं यथाजोषं तया रेमे सुमध्यया
तं विवाहे कृते राजन्सभार्यमवलोककः
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च
भार्यापती तमासीनं गुरुं सुरगणार्चितम्
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्
सा वै प्रसादयामास तं गुरुं पुत्रकारणात्
आत्मनश्चैव मातुश्च प्रसादं च चकार सः
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम्
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम्
कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम्
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम्
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्
भविष्यति महावीर्यः साधूनां मार्गमास्थितः
ततः प्रसादयामास श्वशुरं सा पुनः पुनः
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता
जमदग्निं ततः पुत्रं सा जज्ञे काल आगते
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्