Mahabharata

Vana Parva, Adhyaya 114

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 114, Verse 1

ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय

आनुपूर्व्येण सर्वाणि जगामायतनान्युत

Mahabharata

Vana Parva, Adhyaya 114, Verse 2

स सागरं समासाद्य गङ्गायाः संगमे नृप

नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 3

ततः समुद्रतीरेण जगाम वसुधाधिपः

भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत

Mahabharata

Vana Parva, Adhyaya 114, Verse 4

एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी

यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै

Mahabharata

Vana Parva, Adhyaya 114, Verse 5

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्

उत्तरं तीरमेतद्धि सततं द्विजसेवितम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 6

समेन देवयानेन पथा स्वर्गमुपेयुषः

अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे

Mahabharata

Vana Parva, Adhyaya 114, Verse 7

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे

रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 114, Verse 8

हृते पशौ तदा देवास्तमूचुर्भरतर्षभ

मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः

Mahabharata

Vana Parva, Adhyaya 114, Verse 9

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्

इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा

Mahabharata

Vana Parva, Adhyaya 114, Verse 10

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्

अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 114, Verse 11

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्

देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 12

इमां गाथामत्र गायन्नपः स्पृशति यो नरः

देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते

Mahabharata

Vana Parva, Adhyaya 114, Verse 13

ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा

अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन्

Mahabharata

Vana Parva, Adhyaya 114, Verse 14

उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन

मानुषादस्मि विषयादपेतः पश्य लोमश

Mahabharata

Vana Parva, Adhyaya 114, Verse 15

सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत

वैखानसानां जपतामेष शब्दो महात्मनाम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 16

त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर

यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते

Mahabharata

Vana Parva, Adhyaya 114, Verse 17

एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते

यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान्

Mahabharata

Vana Parva, Adhyaya 114, Verse 18

यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने

सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा

Mahabharata

Vana Parva, Adhyaya 114, Verse 19

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा

उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 20

न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि

प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्

Mahabharata

Vana Parva, Adhyaya 114, Verse 21

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः

प्रसादयां बभूवाथ ततो भूमिं विशां पते

Mahabharata

Vana Parva, Adhyaya 114, Verse 22

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव

पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ

Mahabharata

Vana Parva, Adhyaya 114, Verse 23

सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा

आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि

Mahabharata

Vana Parva, Adhyaya 114, Verse 24

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य

स्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ

Mahabharata

Vana Parva, Adhyaya 114, Verse 25

अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः

एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह

Mahabharata

Vana Parva, Adhyaya 114, Verse 26

ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत्

कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास