Mahabharata

Vana Parva, Adhyaya 113

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 113, Verse 1

रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन

अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति

Mahabharata

Vana Parva, Adhyaya 113, Verse 2

सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः

सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु

Mahabharata

Vana Parva, Adhyaya 113, Verse 3

न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथंचित्

कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप

Mahabharata

Vana Parva, Adhyaya 113, Verse 4

असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि

माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति

Mahabharata

Vana Parva, Adhyaya 113, Verse 5

रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव

नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय

Mahabharata

Vana Parva, Adhyaya 113, Verse 6

यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन

तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम्

Mahabharata

Vana Parva, Adhyaya 113, Verse 7

दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; संभ्रान्तरूपोऽभ्यपतत्तदानीम्

प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति

Mahabharata

Vana Parva, Adhyaya 113, Verse 8

ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम्

प्रलोभयन्त्यो विविधैरुपायै;राजग्मुरङ्गाधिपतेः समीपम्

Mahabharata

Vana Parva, Adhyaya 113, Verse 9

संस्थाप्य तामाश्रमदर्शने तु; संतारितां नावमतीव शुभ्राम्

तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम्

Mahabharata

Vana Parva, Adhyaya 113, Verse 10

अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम्

ददर्श देवं सहसा प्रवृष्ट;मापूर्यमाणं च जगज्जलेन

Mahabharata

Vana Parva, Adhyaya 113, Verse 11

स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम्

क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च

Mahabharata

Vana Parva, Adhyaya 113, Verse 12

विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान्

समादिशत्पुत्रगृद्धी महर्षि;र्विभाण्डकः परिपृच्छेद्यदा वः

Mahabharata

Vana Parva, Adhyaya 113, Verse 13

स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च

किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः

Mahabharata

Vana Parva, Adhyaya 113, Verse 14

अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य

अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः

Mahabharata

Vana Parva, Adhyaya 113, Verse 15

ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम्

जगाम चम्पां प्रदिधक्षमाण;स्तमङ्गराजं विषयं च तस्य

Mahabharata

Vana Parva, Adhyaya 113, Verse 16

स वै श्रान्तः क्षुधितः काश्यपस्ता;न्घोषान्समासादितवान्समृद्धान्

गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र

Mahabharata

Vana Parva, Adhyaya 113, Verse 17

संप्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः

ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य

Mahabharata

Vana Parva, Adhyaya 113, Verse 18

देशे तु देशे तु स पूज्यमान;स्तांश्चैव शृण्वन्मधुरान्प्रलापान्

प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम्

Mahabharata

Vana Parva, Adhyaya 113, Verse 19

संपूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम्

शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव

Mahabharata

Vana Parva, Adhyaya 113, Verse 20

ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः

चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र

Mahabharata

Vana Parva, Adhyaya 113, Verse 21

स तत्र निक्षिप्य सुतं महर्षि;रुवाच सूर्याग्निसमप्रभावम्

जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा

Mahabharata

Vana Parva, Adhyaya 113, Verse 22

स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव

शान्ता चैनं पर्यचरद्यथाव;त्खे रोहिणी सोममिवानुकूला

Mahabharata

Vana Parva, Adhyaya 113, Verse 23

अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम्

नलस्य वा दमयन्ती यथाभू;द्यथा शची वज्रधरस्य चैव

Mahabharata

Vana Parva, Adhyaya 113, Verse 24

नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ

तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र

Mahabharata

Vana Parva, Adhyaya 113, Verse 25

तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः

अत्र स्नातः कृतकृत्यो विशुद्ध;स्तीर्थान्यन्यान्यनुसंयाहि राजन्