Mahabharata

Vana Parva, Adhyaya 112

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 112, Verse 1

इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी

सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः

Mahabharata

Vana Parva, Adhyaya 112, Verse 2

समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः

नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः

Mahabharata

Vana Parva, Adhyaya 112, Verse 3

आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे

द्वौ चास्य पिण्डावधरेण कण्ठ;मजातरोमौ सुमनोहरौ च

Mahabharata

Vana Parva, Adhyaya 112, Verse 4

विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा

तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम्

Mahabharata

Vana Parva, Adhyaya 112, Verse 5

अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति

पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम्

Mahabharata

Vana Parva, Adhyaya 112, Verse 6

विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः

चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति

Mahabharata

Vana Parva, Adhyaya 112, Verse 7

वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः

पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा

Mahabharata

Vana Parva, Adhyaya 112, Verse 8

यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति

तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात

Mahabharata

Vana Parva, Adhyaya 112, Verse 9

सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे

कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः

Mahabharata

Vana Parva, Adhyaya 112, Verse 10

तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन

तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः

Mahabharata

Vana Parva, Adhyaya 112, Verse 11

तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः

तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता

Mahabharata

Vana Parva, Adhyaya 112, Verse 12

स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम्

वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम्

Mahabharata

Vana Parva, Adhyaya 112, Verse 13

न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि

एवंव्रतोऽस्मीति च मामवोच;त्फलानि चान्यानि नवान्यदान्मे

Mahabharata

Vana Parva, Adhyaya 112, Verse 14

मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम्

न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम्

Mahabharata

Vana Parva, Adhyaya 112, Verse 15

तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः

पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत्

Mahabharata

Vana Parva, Adhyaya 112, Verse 16

इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः

यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः

Mahabharata

Vana Parva, Adhyaya 112, Verse 17

गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव

इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम्

Mahabharata

Vana Parva, Adhyaya 112, Verse 18

गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य

इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा