Vana Parva, Adhyaya 111, Verse 1
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम्
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः
अतीव रमणीयं तदतीव च मनोहरम्
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्
ततो निबध्य तां नावमदूरे काश्यपाश्रमात्
चारयामास पुरुषैर्विहारं तस्य वै मुनेः
ततो दुहितरं वेश्या समाधायेतिकृत्यताम्
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम्
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्
कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम्
कच्चिद्भवान्रमते चाश्रमेऽस्मिं;स्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि
कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः
कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम्
पाद्यं वै ते संप्रदास्यामि कामा;द्यथाधर्मं फलमूलानि चैव
कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम्
क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम्
ममाश्रमः काश्यपपुत्र रम्य;स्त्रियोजनं शैलमिमं परेण
तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः
फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव
परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व
सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै
तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति
पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव
गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम्
सर्जानशोकांस्तिलकांश्च वृक्षा;न्प्रपुष्पितानवनाम्यावभज्य
विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः
अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य
अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम्
तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः
तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव
ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात्
स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत्
सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम्
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम्
न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य
न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च
दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत्