Mahabharata

Vana Parva, Adhyaya 110

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 110, Verse 1

एषा देवनदी पुण्या कौशिकी भरतर्षभ

विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते

Mahabharata

Vana Parva, Adhyaya 110, Verse 2

आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः

ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः

Mahabharata

Vana Parva, Adhyaya 110, Verse 3

तपसो यः प्रभावेन वर्षयामास वासवम्

अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा

Mahabharata

Vana Parva, Adhyaya 110, Verse 4

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः

विषये लोमपादस्य यश्चकाराद्भुतं महत्

Mahabharata

Vana Parva, Adhyaya 110, Verse 5

निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः

लोमपादो दुहितरं सावित्रीं सविता यथा

Mahabharata

Vana Parva, Adhyaya 110, Verse 6

ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः

विरुद्धे योनिसंसर्गे कथं च तपसा युतः

Mahabharata

Vana Parva, Adhyaya 110, Verse 7

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः

अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा

Mahabharata

Vana Parva, Adhyaya 110, Verse 8

कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता

लोभयामास या चेतो मृगभूतस्य तस्य वै

Mahabharata

Vana Parva, Adhyaya 110, Verse 9

लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः

कथं वै विषये तस्य नावर्षत्पाकशासनः

Mahabharata

Vana Parva, Adhyaya 110, Verse 10

एतन्मे भगवन्सर्वं विस्तरेण यथातथम्

वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम्

Mahabharata

Vana Parva, Adhyaya 110, Verse 11

विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः

अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः

Mahabharata

Vana Parva, Adhyaya 110, Verse 12

शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्

महाह्रदे महातेजा बालः स्थविरसंमतः

Mahabharata

Vana Parva, Adhyaya 110, Verse 13

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः

दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः

Mahabharata

Vana Parva, Adhyaya 110, Verse 14

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्

अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा

Mahabharata

Vana Parva, Adhyaya 110, Verse 15

सह तोयेन तृषिता सा गर्भिण्यभवन्नृप

अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्

Mahabharata

Vana Parva, Adhyaya 110, Verse 16

तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः

ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत

Mahabharata

Vana Parva, Adhyaya 110, Verse 17

तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः

तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्

Mahabharata

Vana Parva, Adhyaya 110, Verse 18

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः

तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप

Mahabharata

Vana Parva, Adhyaya 110, Verse 19

एतस्मिन्नेव काले तु सखा दशरथस्य वै

लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत्

Mahabharata

Vana Parva, Adhyaya 110, Verse 20

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः

स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः

Mahabharata

Vana Parva, Adhyaya 110, Verse 21

पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया

न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः

Mahabharata

Vana Parva, Adhyaya 110, Verse 22

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः

प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः

Mahabharata

Vana Parva, Adhyaya 110, Verse 23

कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम्

तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः

Mahabharata

Vana Parva, Adhyaya 110, Verse 24

तत्र त्वेको मुनिवरस्तं राजानमुवाच ह

कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर

Mahabharata

Vana Parva, Adhyaya 110, Verse 25

ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव

वानेयमनभिज्ञं च नारीणामार्जवे रतम्

Mahabharata

Vana Parva, Adhyaya 110, Verse 26

स चेदवतरेद्राजन्विषयं ते महातपाः

सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः

Mahabharata

Vana Parva, Adhyaya 110, Verse 27

एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः

स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु

राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः

Mahabharata

Vana Parva, Adhyaya 110, Verse 28

ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्

ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये

Mahabharata

Vana Parva, Adhyaya 110, Verse 29

सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः

शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः

Mahabharata

Vana Parva, Adhyaya 110, Verse 30

तत आनाययामास वारमुख्या महीपतिः

वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः