Vana Parva, Adhyaya 109, Verse 1
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
नन्दामपरनन्दां च नद्यौ पापभयापहे
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ
नन्दामपरनन्दां च नद्यौ पापभयापहे
स पर्वतं समासाद्य हेमकूटमनामयम्
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः
वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः
वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः
लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम्
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन
तदेकाग्रमना राजन्निबोध गदतो मम
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्
स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा
वातं चाहूय मा शब्दमित्युवाच स तापसः
व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते
एवमेतानि कर्माणि राजंस्तेन महर्षिणा
कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित्
नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः
ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः
दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम्
तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा
नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम्
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव
इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान्
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम्
यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते
कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम्