Mahabharata

Vana Parva, Adhyaya 107

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 107, Verse 1

स तु राजा महेष्वासश्चक्रवर्ती महारथः

बभूव सर्वलोकस्य मनोनयननन्दनः

Mahabharata

Vana Parva, Adhyaya 107, Verse 2

स शुश्राव महाबाहुः कपिलेन महात्मना

पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च

Mahabharata

Vana Parva, Adhyaya 107, Verse 3

स राज्यं सचिवे न्यस्य हृदयेन विदूयता

जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः

Mahabharata

Vana Parva, Adhyaya 107, Verse 4

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः

सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 5

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्

पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः

Mahabharata

Vana Parva, Adhyaya 107, Verse 6

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्

गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 7

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः

भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः

Mahabharata

Vana Parva, Adhyaya 107, Verse 8

मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः

चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि

Mahabharata

Vana Parva, Adhyaya 107, Verse 9

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्

सारसानां च मधुरैर्व्याहृतैः समलंकृतम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 10

किंनरैरप्सरोभिश्च निषेवितशिलातलम्

दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 11

विद्याधरानुचरितं नानारत्नसमाकुलम्

विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 12

क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्

क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्

Mahabharata

Vana Parva, Adhyaya 107, Verse 13

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः

फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान्

Mahabharata

Vana Parva, Adhyaya 107, Verse 14

संवत्सरसहस्रे तु गते दिव्ये महानदी

दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 15

किमिच्छसि महाराज मत्तः किं च ददानि ते

तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव

Mahabharata

Vana Parva, Adhyaya 107, Verse 16

एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा

पितामहा मे वरदे कपिलेन महानदि

अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 17

षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्

कापिलं तेज आसाद्य क्षणेन निधनं गताः

Mahabharata

Vana Parva, Adhyaya 107, Verse 18

तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते

यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि

Mahabharata

Vana Parva, Adhyaya 107, Verse 19

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्

तेषामर्थेऽभियाचामि त्वामहं वै महानदि

Mahabharata

Vana Parva, Adhyaya 107, Verse 20

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता

भगीरथमिदं वाक्यं सुप्रीता समभाषत

Mahabharata

Vana Parva, Adhyaya 107, Verse 21

करिष्यामि महाराज वचस्ते नात्र संशयः

वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 22

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप

अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्

Mahabharata

Vana Parva, Adhyaya 107, Verse 23

तं तोषय महाबाहो तपसा वरदं हरम्

स तु मां प्रच्युतां देवः शिरसा धारयिष्यति

करिष्यति च ते कामं पितॄणां हितकाम्यया

Mahabharata

Vana Parva, Adhyaya 107, Verse 24

एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः

कैलासं पर्वतं गत्वा तोषयामास शंकरम्

Mahabharata

Vana Parva, Adhyaya 107, Verse 25

ततस्तेन समागम्य कालयोगेन केनचित्

अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप

स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः