Mahabharata

Vana Parva, Adhyaya 106

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 106, Verse 1

ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः

अनादृत्य महात्मानं कपिलं कालचोदिताः

संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः

Mahabharata

Vana Parva, Adhyaya 106, Verse 2

ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः

वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम्

Mahabharata

Vana Parva, Adhyaya 106, Verse 3

स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन्

ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्

Mahabharata

Vana Parva, Adhyaya 106, Verse 4

तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः

सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 106, Verse 5

स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्

मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्

आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत्

Mahabharata

Vana Parva, Adhyaya 106, Verse 6

अंशुमन्तं समाहूय असमञ्जःसुतं तदा

पौत्रं भरतशार्दूल इदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 106, Verse 7

षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्

कापिलं तेज आसाद्य मत्कृते निधनं गताः

Mahabharata

Vana Parva, Adhyaya 106, Verse 8

तव चापि पिता तात परित्यक्तो मयानघ

धर्मं संरक्षमाणेन पौराणां हितमिच्छता

Mahabharata

Vana Parva, Adhyaya 106, Verse 9

किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्

त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन

Mahabharata

Vana Parva, Adhyaya 106, Verse 10

असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्

यं शैब्या जनयामास पौराणां स हि दारकान्

खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान्

Mahabharata

Vana Parva, Adhyaya 106, Verse 11

ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः

सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः

Mahabharata

Vana Parva, Adhyaya 106, Verse 12

त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः

असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि

Mahabharata

Vana Parva, Adhyaya 106, Verse 13

पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः

मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 106, Verse 14

असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्

यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्

Mahabharata

Vana Parva, Adhyaya 106, Verse 15

एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप

यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः

Mahabharata

Vana Parva, Adhyaya 106, Verse 16

एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना

पौराणां हितकामेन सगरेण विवासितः

Mahabharata

Vana Parva, Adhyaya 106, Verse 17

अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह

तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे

Mahabharata

Vana Parva, Adhyaya 106, Verse 18

पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च

अलाभेन तथाश्वस्य परितप्यामि पुत्रक

Mahabharata

Vana Parva, Adhyaya 106, Verse 19

तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्

हयस्यानयनात्पौत्र नरकान्मां समुद्धर

Mahabharata

Vana Parva, Adhyaya 106, Verse 20

अंशुमानेवमुक्तस्तु सगरेण महात्मना

जगाम दुःखात्तं देशं यत्र वै दारिता मही

Mahabharata

Vana Parva, Adhyaya 106, Verse 21

स तु तेनैव मार्गेण समुद्रं प्रविवेश ह

अपश्यच्च महात्मानं कपिलं तुरगं च तम्

Mahabharata

Vana Parva, Adhyaya 106, Verse 22

स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्

प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 106, Verse 23

ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत्

उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत

Mahabharata

Vana Parva, Adhyaya 106, Verse 24

स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्

द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया

Mahabharata

Vana Parva, Adhyaya 106, Verse 25

तमुवाच महातेजाः कपिलो मुनिपुंगवः

ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ

Mahabharata

Vana Parva, Adhyaya 106, Verse 26

त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्

त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता

Mahabharata

Vana Parva, Adhyaya 106, Verse 27

तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः

पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति

पावनार्थं सागराणां तोषयित्वा महेश्वरम्

Mahabharata

Vana Parva, Adhyaya 106, Verse 28

हयं नयस्व भद्रं ते यज्ञियं नरपुंगव

यज्ञः समाप्यतां तात सगरस्य महात्मनः

Mahabharata

Vana Parva, Adhyaya 106, Verse 29

अंशुमानेवमुक्तस्तु कपिलेन महात्मना

आजगाम हयं गृह्य यज्ञवाटं महात्मनः

Mahabharata

Vana Parva, Adhyaya 106, Verse 30

सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः

मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्