Mahabharata

Vana Parva, Adhyaya 105

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 105, Verse 1

एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम

यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 105, Verse 2

षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः

रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव

Mahabharata

Vana Parva, Adhyaya 105, Verse 3

ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः

बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान्

Mahabharata

Vana Parva, Adhyaya 105, Verse 4

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्

सर्वाणि चैव भूतानि शूराः समरशालिनः

Mahabharata

Vana Parva, Adhyaya 105, Verse 5

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः

ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः

Mahabharata

Vana Parva, Adhyaya 105, Verse 6

तानुवाच महाभागः सर्वलोकपितामहः

गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्

Mahabharata

Vana Parva, Adhyaya 105, Verse 7

नातिदीर्घेण कालेन सागराणां क्षयो महान्

भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः

Mahabharata

Vana Parva, Adhyaya 105, Verse 8

एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर

पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्

Mahabharata

Vana Parva, Adhyaya 105, Verse 9

ततः काले बहुतिथे व्यतीते भरतर्षभ

दीक्षितः सगरो राजा हयमेधेन वीर्यवान्

तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः

Mahabharata

Vana Parva, Adhyaya 105, Verse 10

समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्

रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत

Mahabharata

Vana Parva, Adhyaya 105, Verse 11

ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्

आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्

तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्

Mahabharata

Vana Parva, Adhyaya 105, Verse 12

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्

अमार्गन्त महाराज सर्वं च पृथिवीतलम्

Mahabharata

Vana Parva, Adhyaya 105, Verse 13

ततस्ते सागराः सर्वे समुपेत्य परस्परम्

नाध्यगच्छन्त तुरगमश्वहर्तारमेव च

Mahabharata

Vana Parva, Adhyaya 105, Verse 14

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः

ससमुद्रवनद्वीपा सनदीनदकन्दरा

सपर्वतवनोद्देशा निखिलेन मही नृप

Mahabharata

Vana Parva, Adhyaya 105, Verse 15

अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव

न चाश्वमधिगच्छामो नाश्वहर्तारमेव च

Mahabharata

Vana Parva, Adhyaya 105, Verse 16

श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः

उवाच वचनं सर्वांस्तदा दैववशान्नृप

Mahabharata

Vana Parva, Adhyaya 105, Verse 17

अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्

यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः

Mahabharata

Vana Parva, Adhyaya 105, Verse 18

प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः

भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः

Mahabharata

Vana Parva, Adhyaya 105, Verse 19

अथापश्यन्त ते वीराः पृथिवीमवदारिताम्

समासाद्य बिलं तच्च खनन्तः सगरात्मजाः

कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा

Mahabharata

Vana Parva, Adhyaya 105, Verse 20

स खन्यमानः सहितैः सागरैर्वरुणालयः

अगच्छत्परमामार्तिं दार्यमाणः समन्ततः

Mahabharata

Vana Parva, Adhyaya 105, Verse 21

असुरोरगरक्षांसि सत्त्वानि विविधानि च

आर्तनादमकुर्वन्त वध्यमानानि सागरैः

Mahabharata

Vana Parva, Adhyaya 105, Verse 22

छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः

प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः

Mahabharata

Vana Parva, Adhyaya 105, Verse 23

एवं हि खनतां तेषां समुद्रं मकरालयम्

व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत

Mahabharata

Vana Parva, Adhyaya 105, Verse 24

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते

विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः

अपश्यन्त हयं तत्र विचरन्तं महीतले

Mahabharata

Vana Parva, Adhyaya 105, Verse 25

कपिलं च महात्मानं तेजोराशिमनुत्तमम्

तपसा दीप्यमानं तं ज्वालाभिरिव पावकम्