Vana Parva, Adhyaya 104, Verse 1
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः
ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात्
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम्
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना
कथयामास माहात्म्यं सगरस्य महात्मनः
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः
रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान्
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत
वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ
स पुत्रकामो नृपतिस्तताप सुमहत्तपः
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः
स तप्यमानः सुमहत्तपो योगसमन्वितः
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम्
शंकरं भवमीशानं शूलपानिं पिनाकिनम्
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम्
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः
प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम्
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम्
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः
एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव
एको वंशधरः शूर एकस्यां संभविष्यति
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत
स चापि सगरो राजा जगाम स्वं निवेशनम्
पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे
वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम्
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः
अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम्
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि
अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम्
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव
महादेवेन दिष्टं ते पुत्रजन्म नराधिप
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा