Vana Parva, Adhyaya 103, Verse 1
समुद्रं स समासाद्य वारुणिर्भगवानृषिः
उवाच सहितान्देवानृषींश्चैव समागतान्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
समुद्रं स समासाद्य वारुणिर्भगवानृषिः
उवाच सहितान्देवानृषींश्चैव समागतान्
एष लोकहितार्थं वै पिबामि वरुणालयम्
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन्
त्वं नस्त्राता विधाता च लोकानां लोकभावनः
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत्
संपूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः
दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार
दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः
प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः
ते वध्यमानास्त्रिदशैर्महात्मभि;र्महाबलैर्वेगिभिरुन्नदद्भिः
न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम्
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः
निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः
हतशेषास्ततः केचित्कालेया मनुजोत्तम
विदार्य वसुधां देवीं पातालतलमाश्रिताः
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम्
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः
पूरयस्व महाबाहो समुद्रं लोकभावन
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज
एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम्
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः
परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम्
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम्
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम्
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम्