Vana Parva, Adhyaya 102, Verse 1
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने
अद्रिराजं महाशैलं मरुं कनकपर्वतम्
उदयास्तमये भानुः प्रदक्षिणमवर्तत
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत्
यथा हि मेरुर्भवता नित्यशः परिगम्यते
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम्
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप
ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम्
निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार
अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम्
अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम
ऋते त्वां हि महाभाग तस्मादेनं निवारय
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्
सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित्
यावदागमनं मह्यं तावत्त्वं प्रतिपालय
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते
अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्
किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ
एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन्
एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन्
ततो वधिष्याम सहानुबन्धा;न्कालेयसंज्ञान्सुरविद्विषस्तान्
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्
करिष्ये भवतां कामं लोकानां च महत्सुखम्
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम्
ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः
मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम्
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च
नानाग्राहसमाकीर्णं नानाद्विजगणायुतम्
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः
ऋषयश्च महाभागाः समासेदुर्महोदधिम्