Mahabharata

Vana Parva, Adhyaya 101

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 101, Verse 1

इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः

ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः

Mahabharata

Vana Parva, Adhyaya 101, Verse 2

लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः

त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः

Mahabharata

Vana Parva, Adhyaya 101, Verse 3

इदं च समनुप्राप्तं लोकानां भयमुत्तमम्

न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः

Mahabharata

Vana Parva, Adhyaya 101, Verse 4

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति

ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति

Mahabharata

Vana Parva, Adhyaya 101, Verse 5

त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते

विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः

Mahabharata

Vana Parva, Adhyaya 101, Verse 6

विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्

भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः

Mahabharata

Vana Parva, Adhyaya 101, Verse 7

कालेय इति विख्यातो गणः परमदारुणः

तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम्

Mahabharata

Vana Parva, Adhyaya 101, Verse 8

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता

जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्

Mahabharata

Vana Parva, Adhyaya 101, Verse 9

ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्

उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह

Mahabharata

Vana Parva, Adhyaya 101, Verse 10

न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते

समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम्

अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे

Mahabharata

Vana Parva, Adhyaya 101, Verse 11

एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्

परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः

Mahabharata

Vana Parva, Adhyaya 101, Verse 12

तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्

उपास्यमानमृषिभिर्देवैरिव पितामहम्

Mahabharata

Vana Parva, Adhyaya 101, Verse 13

तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्

आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन्

Mahabharata

Vana Parva, Adhyaya 101, Verse 14

नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा

भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः

Mahabharata

Vana Parva, Adhyaya 101, Verse 15

क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः

वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते

Mahabharata

Vana Parva, Adhyaya 101, Verse 16

तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः

त्वामेव नाथमासाद्य निर्वृतिं परमां गताः

Mahabharata

Vana Parva, Adhyaya 101, Verse 17

अस्माकं भयभीतानां नित्यशो भगवान्गतिः

ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि