Mahabharata

Vana Parva, Adhyaya 100

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 100, Verse 1

समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम्

कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने

Mahabharata

Vana Parva, Adhyaya 100, Verse 2

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्

आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च

Mahabharata

Vana Parva, Adhyaya 100, Verse 3

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः

अशीतिशतमष्टौ च नव चान्ये तपस्विनः

Mahabharata

Vana Parva, Adhyaya 100, Verse 4

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्

फलमूलाशनानां हि मुनीनां भक्षितं शतम्

Mahabharata

Vana Parva, Adhyaya 100, Verse 5

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा

भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः

वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः

Mahabharata

Vana Parva, Adhyaya 100, Verse 6

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा

निशायां परिधावन्ति मत्ता भुजबलाश्रयात्

कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून्

Mahabharata

Vana Parva, Adhyaya 100, Verse 7

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम

एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु

Mahabharata

Vana Parva, Adhyaya 100, Verse 8

प्रभाते समदृश्यन्त नियताहारकर्शिताः

महीतलस्था मुनयः शरीरैर्गतजीवितैः

Mahabharata

Vana Parva, Adhyaya 100, Verse 9

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः

आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः

Mahabharata

Vana Parva, Adhyaya 100, Verse 10

कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च

विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता

Mahabharata

Vana Parva, Adhyaya 100, Verse 11

निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्

जगदासीन्निरुत्साहं कालेयभयपीडितम्

Mahabharata

Vana Parva, Adhyaya 100, Verse 12

एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर

आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात्

Mahabharata

Vana Parva, Adhyaya 100, Verse 13

केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः

अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन्

Mahabharata

Vana Parva, Adhyaya 100, Verse 14

केचिदत्र महेष्वासाः शूराः परमदर्पिताः

मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे

Mahabharata

Vana Parva, Adhyaya 100, Verse 15

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्

श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च

Mahabharata

Vana Parva, Adhyaya 100, Verse 16

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये

आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर

Mahabharata

Vana Parva, Adhyaya 100, Verse 17

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे

नारायणं पुरस्कृत्य वैकुण्ठमपराजितम्

Mahabharata

Vana Parva, Adhyaya 100, Verse 18

ततो देवाः समेतास्ते तदोचुर्मधुसूदनम्

त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो

त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति

Mahabharata

Vana Parva, Adhyaya 100, Verse 19

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण

वाराहं रूपमास्थाय जगदर्थे समुद्धृता

Mahabharata

Vana Parva, Adhyaya 100, Verse 20

आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया

नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम

Mahabharata

Vana Parva, Adhyaya 100, Verse 21

अवध्यः सर्वभूतानां बलिश्चापि महासुरः

वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया

Mahabharata

Vana Parva, Adhyaya 100, Verse 22

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः

यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः

Mahabharata

Vana Parva, Adhyaya 100, Verse 23

एवमादीनि कर्माणि येषां संख्या न विद्यते

अस्माकं भयभीतानां त्वं गतिर्मधुसूदन

Mahabharata

Vana Parva, Adhyaya 100, Verse 24

तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे

रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्