Mahabharata

Vana Parva, Adhyaya 99

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 99, Verse 1

ततः स वज्री बलिभिर्दैवतैरभिरक्षितः

आससाद ततो वृत्रं स्थितमावृत्य रोदसी

Mahabharata

Vana Parva, Adhyaya 99, Verse 2

कालकेयैर्महाकायैः समन्तादभिरक्षितम्

समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः

Mahabharata

Vana Parva, Adhyaya 99, Verse 3

ततो युद्धं समभवद्देवानां सह दानवैः

मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्

Mahabharata

Vana Parva, Adhyaya 99, Verse 4

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः

आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम्

Mahabharata

Vana Parva, Adhyaya 99, Verse 5

शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम्

तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत

Mahabharata

Vana Parva, Adhyaya 99, Verse 6

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः

त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः

Mahabharata

Vana Parva, Adhyaya 99, Verse 7

तेषां वेगवतां वेगं सहितानां प्रधावताम्

न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात्

Mahabharata

Vana Parva, Adhyaya 99, Verse 8

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः

वृत्रे विवर्धमाने च कश्मलं महदाविशत्

Mahabharata

Vana Parva, Adhyaya 99, Verse 9

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः

स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्

Mahabharata

Vana Parva, Adhyaya 99, Verse 10

विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः

स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः

Mahabharata

Vana Parva, Adhyaya 99, Verse 11

स समाप्यायितः शक्रो विष्णुना दैवतैः सह

ऋषिभिश्च महाभागैर्बलवान्समपद्यत

Mahabharata

Vana Parva, Adhyaya 99, Verse 12

ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान्

तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम्

Mahabharata

Vana Parva, Adhyaya 99, Verse 13

ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम्

भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन्

Mahabharata

Vana Parva, Adhyaya 99, Verse 14

स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी

यथा महाञ्शैलवरः पुरस्ता;त्स मन्दरो विष्णुकरात्प्रमुक्तः

Mahabharata

Vana Parva, Adhyaya 99, Verse 15

तस्मिन्हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम्

वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने

Mahabharata

Vana Parva, Adhyaya 99, Verse 16

सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः

सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान्

Mahabharata

Vana Parva, Adhyaya 99, Verse 17

ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः

प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च

Mahabharata

Vana Parva, Adhyaya 99, Verse 18

तदा स्म मन्त्रं सहिताः प्रचक्रु;स्त्रैलोक्यनाशार्थमभिस्मयन्तः

तत्र स्म केचिन्मतिनिश्चयज्ञा;स्तांस्तानुपायाननुवर्णयन्ति

Mahabharata

Vana Parva, Adhyaya 99, Verse 19

तेषां तु तत्र क्रमकालयोगा;द्घोरा मतिश्चिन्तयतां बभूव

ये सन्ति विद्यातपसोपपन्ना;स्तेषां विनाशः प्रथमं तु कार्यः

Mahabharata

Vana Parva, Adhyaya 99, Verse 20

लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय

ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः

तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम्

Mahabharata

Vana Parva, Adhyaya 99, Verse 21

एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः

दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म