Mahabharata

Vana Parva, Adhyaya 98

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 98, Verse 1

भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः

कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम

Mahabharata

Vana Parva, Adhyaya 98, Verse 2

शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्

अगस्त्यस्य महाराज प्रभावममितात्मनः

Mahabharata

Vana Parva, Adhyaya 98, Verse 3

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः

कालेया इति विख्याता गणाः परमदारुणाः

Mahabharata

Vana Parva, Adhyaya 98, Verse 4

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः

समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्

Mahabharata

Vana Parva, Adhyaya 98, Verse 5

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा

पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे

Mahabharata

Vana Parva, Adhyaya 98, Verse 6

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह

विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 7

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ

दधीच इति विख्यातो महानृषिरुदारधीः

Mahabharata

Vana Parva, Adhyaya 98, Verse 8

तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत

स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना

Mahabharata

Vana Parva, Adhyaya 98, Verse 9

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः

स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति

Mahabharata

Vana Parva, Adhyaya 98, Verse 10

तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम्

महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 11

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः

एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 12

एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्

नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः

Mahabharata

Vana Parva, Adhyaya 98, Verse 13

सरस्वत्याः परे पारे नानाद्रुमलतावृतम्

षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव

पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 14

महिषैश्च वराहैश्च सृमरैश्चमरैरपि

तत्र तत्रानुचरितं शार्दूलभयवर्जितैः

Mahabharata

Vana Parva, Adhyaya 98, Verse 15

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः

सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 16

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्

अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः

Mahabharata

Vana Parva, Adhyaya 98, Verse 17

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्

त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्

Mahabharata

Vana Parva, Adhyaya 98, Verse 18

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्

जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 19

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च

अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना

Mahabharata

Vana Parva, Adhyaya 98, Verse 20

ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच

करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि

Mahabharata

Vana Parva, Adhyaya 98, Verse 21

स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज

ततः सुरास्ते जगृहुः परासो;रस्थीनि तस्याथ यथोपदेशम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 22

प्रहृष्टरूपाश्च जयाय देवा;स्त्वष्टारमागम्य तमर्थमूचुः

त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात्

Mahabharata

Vana Parva, Adhyaya 98, Verse 23

चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः

अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम्

Mahabharata

Vana Parva, Adhyaya 98, Verse 24

ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः

त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात्