Mahabharata

Vana Parva, Adhyaya 97

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 97, Verse 1

इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्

उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत्

Mahabharata

Vana Parva, Adhyaya 97, Verse 2

तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा

स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल

Mahabharata

Vana Parva, Adhyaya 97, Verse 3

ततो राजर्षयः सर्वे विषण्णा गतचेतसः

वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 4

अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः

विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 5

धुर्यासनमथासाद्य निषसाद महामुनिः

तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव

Mahabharata

Vana Parva, Adhyaya 97, Verse 6

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः

भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः

Mahabharata

Vana Parva, Adhyaya 97, Verse 7

ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः

इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 8

प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्

किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः

Mahabharata

Vana Parva, Adhyaya 97, Verse 9

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा

ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 10

इमे च नातिधनिनो धनार्थश्च महान्मम

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः

Mahabharata

Vana Parva, Adhyaya 97, Verse 11

ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत्

दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु

Mahabharata

Vana Parva, Adhyaya 97, Verse 12

गवां दश सहस्राणि राज्ञामेकैकशोऽसुर

तावदेव सुवर्णस्य दित्सितं ते महासुर

Mahabharata

Vana Parva, Adhyaya 97, Verse 13

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः

मनोजवौ वाजिनौ च दित्सितं ते महासुर

जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः

Mahabharata

Vana Parva, Adhyaya 97, Verse 14

जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः

ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु

Mahabharata

Vana Parva, Adhyaya 97, Verse 15

विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ

ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति

सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत

Mahabharata

Vana Parva, Adhyaya 97, Verse 16

अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा

कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 17

कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्

उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्

Mahabharata

Vana Parva, Adhyaya 97, Verse 18

तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने

विचारणामपत्ये तु तव वक्ष्यामि तां शृणु

Mahabharata

Vana Parva, Adhyaya 97, Verse 19

सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम्

दश वा शततुल्याः स्युरेको वापि सहस्रवत्

Mahabharata

Vana Parva, Adhyaya 97, Verse 20

सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन

एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः

Mahabharata

Vana Parva, Adhyaya 97, Verse 21

स तथेति प्रतिज्ञाय तया समभवन्मुनिः

समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया

Mahabharata

Vana Parva, Adhyaya 97, Verse 22

तत आधाय गर्भं तमगमद्वनमेव सः

तस्मिन्वनगते गर्भो ववृधे सप्त शारदान्

Mahabharata

Vana Parva, Adhyaya 97, Verse 23

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः

ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत

साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः

Mahabharata

Vana Parva, Adhyaya 97, Verse 24

तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः

स बाल एव तेजस्वी पितुस्तस्य निवेशने

इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्

Mahabharata

Vana Parva, Adhyaya 97, Verse 25

तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा

लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान्

Mahabharata

Vana Parva, Adhyaya 97, Verse 26

अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः

प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः

Mahabharata

Vana Parva, Adhyaya 97, Verse 27

तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः

एषा भागीरथी पुण्या यथेष्टमवगाह्यताम्