Mahabharata

Vana Parva, Adhyaya 96

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 96, Verse 1

ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु

श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः

Mahabharata

Vana Parva, Adhyaya 96, Verse 2

स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत्

विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्

Mahabharata

Vana Parva, Adhyaya 96, Verse 3

तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः

प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम्

Mahabharata

Vana Parva, Adhyaya 96, Verse 4

वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे

Mahabharata

Vana Parva, Adhyaya 96, Verse 5

तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत्

अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे

Mahabharata

Vana Parva, Adhyaya 96, Verse 6

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः

सर्वथा प्राणिनां पीडामुपादानादमन्यत

Mahabharata

Vana Parva, Adhyaya 96, Verse 7

स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः

स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि

Mahabharata

Vana Parva, Adhyaya 96, Verse 8

तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत्

अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे

Mahabharata

Vana Parva, Adhyaya 96, Verse 9

वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ

Mahabharata

Vana Parva, Adhyaya 96, Verse 10

तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत्

ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते

Mahabharata

Vana Parva, Adhyaya 96, Verse 11

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः

सर्वथा प्राणिनां पीडामुपादानादमन्यत

Mahabharata

Vana Parva, Adhyaya 96, Verse 12

पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्

अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः

Mahabharata

Vana Parva, Adhyaya 96, Verse 13

त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि

अभिगम्य महाराज विषयान्ते सवाहनः

Mahabharata

Vana Parva, Adhyaya 96, Verse 14

अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः

समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे

Mahabharata

Vana Parva, Adhyaya 96, Verse 15

वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः

Mahabharata

Vana Parva, Adhyaya 96, Verse 16

तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्

अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते

Mahabharata

Vana Parva, Adhyaya 96, Verse 17

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः

सर्वथा प्राणिनां पीडामुपादानादमन्यत

Mahabharata

Vana Parva, Adhyaya 96, Verse 18

ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम्

इदमूचुर्महाराज समवेक्ष्य परस्परम्

Mahabharata

Vana Parva, Adhyaya 96, Verse 19

अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि

तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु

Mahabharata

Vana Parva, Adhyaya 96, Verse 20

तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम्

ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्