Mahabharata

Vana Parva, Adhyaya 95

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 95, Verse 1

यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति

तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम्

Mahabharata

Vana Parva, Adhyaya 95, Verse 2

राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्

वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे

Mahabharata

Vana Parva, Adhyaya 95, Verse 3

एवमुक्तः स मुनिना महीपालो विचेतनः

प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत

Mahabharata

Vana Parva, Adhyaya 95, Verse 4

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः

महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्

Mahabharata

Vana Parva, Adhyaya 95, Verse 5

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्

लोपामुद्राभिगम्येदं काले वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 95, Verse 6

न मत्कृते महीपाल पीडामभ्येतुमर्हसि

प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः

Mahabharata

Vana Parva, Adhyaya 95, Verse 7

दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने

लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते

Mahabharata

Vana Parva, Adhyaya 95, Verse 8

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत

महार्हाण्युत्सृजैतानि वासांस्याभरणानि च

Mahabharata

Vana Parva, Adhyaya 95, Verse 9

ततः सा दर्शनीयानि महार्हाणि तनूनि च

समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा

Mahabharata

Vana Parva, Adhyaya 95, Verse 10

ततश्चीराणि जग्राह वल्कलान्यजिनानि च

समानव्रतचर्या च बभूवायतलोचना

Mahabharata

Vana Parva, Adhyaya 95, Verse 11

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः

उग्रमातिष्ठत तपः सह पत्न्यानुकूलया

Mahabharata

Vana Parva, Adhyaya 95, Verse 12

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा

अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः

Mahabharata

Vana Parva, Adhyaya 95, Verse 13

ततो बहुतिथे काले लोपामुद्रां विशां पते

तपसा द्योतितां स्नातां ददर्श भगवानृषिः

Mahabharata

Vana Parva, Adhyaya 95, Verse 14

स तस्याः परिचारेण शौचेन च दमेन च

श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्

Mahabharata

Vana Parva, Adhyaya 95, Verse 15

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी

तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 95, Verse 16

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत

या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि

Mahabharata

Vana Parva, Adhyaya 95, Verse 17

यथा पितुर्गृहे विप्र प्रासादे शयनं मम

तथाविधे त्वं शयने मामुपैतुमिहार्हसि

Mahabharata

Vana Parva, Adhyaya 95, Verse 18

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्

उपसर्तुं यथाकामं दिव्याभरणभूषिता

Mahabharata

Vana Parva, Adhyaya 95, Verse 19

न वै धनानि विद्यन्ते लोपामुद्रे तथा मम

यथाविधानि कल्याणि पितुस्तव सुमध्यमे

Mahabharata

Vana Parva, Adhyaya 95, Verse 20

ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर

क्षणेन जीवलोके यद्वसु किंचन विद्यते

Mahabharata

Vana Parva, Adhyaya 95, Verse 21

एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे

यथा तु मे न नश्येत तपस्तन्मां प्रचोदय

Mahabharata

Vana Parva, Adhyaya 95, Verse 22

अल्पावशिष्टः कालोऽयमृतौ मम तपोधन

न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन

Mahabharata

Vana Parva, Adhyaya 95, Verse 23

न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन

एतत्तु मे यथाकामं संपादयितुमर्हसि

Mahabharata

Vana Parva, Adhyaya 95, Verse 24

यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः

हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता