Mahabharata

Vana Parva, Adhyaya 94

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 94, Verse 1

ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः

अगस्त्याश्रममासाद्य दुर्जयायामुवास ह

Mahabharata

Vana Parva, Adhyaya 94, Verse 2

तत्र वै लोमशं राजा पप्रच्छ वदतां वरः

अगस्त्येनेह वातापिः किमर्थमुपशामितः

Mahabharata

Vana Parva, Adhyaya 94, Verse 3

आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः

किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः

Mahabharata

Vana Parva, Adhyaya 94, Verse 4

इल्वलो नाम दैतेय आसीत्कौरवनन्दन

मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः

Mahabharata

Vana Parva, Adhyaya 94, Verse 5

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः

पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु

Mahabharata

Vana Parva, Adhyaya 94, Verse 6

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्

चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्

Mahabharata

Vana Parva, Adhyaya 94, Verse 7

समाह्वयति यं वाचा गतं वैवस्वतक्षयम्

स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते

Mahabharata

Vana Parva, Adhyaya 94, Verse 8

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्

तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्

Mahabharata

Vana Parva, Adhyaya 94, Verse 9

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः

वातापिः प्रहसन्राजन्निश्चक्राम विशां पते

Mahabharata

Vana Parva, Adhyaya 94, Verse 10

एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः

हिंसयामास दैतेय इल्वलो दुष्टचेतनः

Mahabharata

Vana Parva, Adhyaya 94, Verse 11

अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु

पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान्

Mahabharata

Vana Parva, Adhyaya 94, Verse 12

सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः

संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः

Mahabharata

Vana Parva, Adhyaya 94, Verse 13

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः

गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः

Mahabharata

Vana Parva, Adhyaya 94, Verse 14

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्

स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्

Mahabharata

Vana Parva, Adhyaya 94, Verse 15

स तानुवाच तेजस्वी सत्यधर्मपरायणः

करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः

Mahabharata

Vana Parva, Adhyaya 94, Verse 16

ततः प्रसवसंतानं चिन्तयन्भगवानृषिः

आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम्

Mahabharata

Vana Parva, Adhyaya 94, Verse 17

स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्

संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्

Mahabharata

Vana Parva, Adhyaya 94, Verse 18

स तां विदर्भराजाय पुत्रकामाय ताम्यते

निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः

Mahabharata

Vana Parva, Adhyaya 94, Verse 19

सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा

विभ्राजमाना वपुसा व्यवर्धत शुभानना

Mahabharata

Vana Parva, Adhyaya 94, Verse 20

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः

प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत

Mahabharata

Vana Parva, Adhyaya 94, Verse 21

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप

लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः

Mahabharata

Vana Parva, Adhyaya 94, Verse 22

ववृधे सा महाराज बिभ्रती रूपमुत्तमम्

अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा

Mahabharata

Vana Parva, Adhyaya 94, Verse 23

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः

दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः

Mahabharata

Vana Parva, Adhyaya 94, Verse 24

सा स्म दासीशतवृता मध्ये कन्याशतस्य च

आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो

Mahabharata

Vana Parva, Adhyaya 94, Verse 25

यौवनस्थामपि च तां शीलाचारसमन्विताम्

न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः

Mahabharata

Vana Parva, Adhyaya 94, Verse 26

सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति

तोषयामास पितरं शीलेन स्वजनं तथा

Mahabharata

Vana Parva, Adhyaya 94, Verse 27

वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता

मनसा चिन्तयामास कस्मै दद्यां सुतामिति