Vana Parva, Adhyaya 93, Verse 1
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह
क्रमेण पृथिवीपाल नैमिषारण्यमागताः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह
क्रमेण पृथिवीपाल नैमिषारण्यमागताः
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः
वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम्
प्रयागे देवयजने देवानां पृथिवीपते
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्
संतर्पयन्तः सततं वन्येन हविषा द्विजान्
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्
राजर्षिणा पुण्यकृता गयेनानुपमद्युते
सरो गयशिरो यत्र पुण्या चैव महानदी
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम्
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति
उवास च स्वयं यत्र धर्मो राजन्सनातनः
सर्वासां सरितां चैव समुद्भेदो विशां पते
यत्र संनिहितो नित्यं महादेवः पिनाकधृक्
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे
ऋषियज्ञेन महता यत्राक्षयवटो महान्
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः
चातुर्मास्येनायजन्त आर्षेण विधिना तदा
तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः
कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम्
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः
शमठोऽकथयद्राजन्नामूर्तरयसं गयम्
अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः
अहन्यहनि चाप्येतद्याचतां संप्रदीयते
अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम्
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः
न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्
तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः
न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः
कथं नु देवा हविषा गयेन परितर्पिताः
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्
एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः
बभूवुरस्य सरसः समीपे कुरुनन्दन