Mahabharata

Vana Parva, Adhyaya 92

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 92, Verse 1

न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम

तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः

Mahabharata

Vana Parva, Adhyaya 92, Verse 2

परांश्च निर्गुणान्मन्ये न च धर्मरतानपि

ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना

Mahabharata

Vana Parva, Adhyaya 92, Verse 3

नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन

यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः

Mahabharata

Vana Parva, Adhyaya 92, Verse 4

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति

ततः सपत्नाञ्जयति समूलस्तु विनश्यति

Mahabharata

Vana Parva, Adhyaya 92, Verse 5

मया हि दृष्टा दैतेया दानवाश्च महीपते

वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः

Mahabharata

Vana Parva, Adhyaya 92, Verse 6

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो

अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः

Mahabharata

Vana Parva, Adhyaya 92, Verse 7

तीर्थानि देवा विविशुर्नाविशन्भारतासुराः

तानधर्मकृतो दर्पः पूर्वमेव समाविशत्

Mahabharata

Vana Parva, Adhyaya 92, Verse 8

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत

क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत्

Mahabharata

Vana Parva, Adhyaya 92, Verse 9

तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान्

क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप

Mahabharata

Vana Parva, Adhyaya 92, Verse 10

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः

दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः

Mahabharata

Vana Parva, Adhyaya 92, Verse 11

तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा

दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः

Mahabharata

Vana Parva, Adhyaya 92, Verse 12

मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत

निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः

Mahabharata

Vana Parva, Adhyaya 92, Verse 13

देवास्तु सागरांश्चैव सरितश्च सरांसि च

अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च

Mahabharata

Vana Parva, Adhyaya 92, Verse 14

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव

प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे

Mahabharata

Vana Parva, Adhyaya 92, Verse 15

एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः

तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम्

Mahabharata

Vana Parva, Adhyaya 92, Verse 16

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः

पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः

Mahabharata

Vana Parva, Adhyaya 92, Verse 17

यथैव हि नृगो राजा शिबिरौशीनरो यथा

भगीरथो वसुमना गयः पूरुः पुरूरवाः

Mahabharata

Vana Parva, Adhyaya 92, Verse 18

चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते

तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम्

Mahabharata

Vana Parva, Adhyaya 92, Verse 19

अलभन्त यशः पुण्यं धनानि च विशां पते

तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम्

Mahabharata

Vana Parva, Adhyaya 92, Verse 20

यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः

मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः

Mahabharata

Vana Parva, Adhyaya 92, Verse 21

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्

देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे

Mahabharata

Vana Parva, Adhyaya 92, Verse 22

धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः

नचिराद्विनशिष्यन्ति दैत्या इव न संशयः