Vana Parva, Adhyaya 90, Verse 1
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन
श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम्
स भवान्यत्परं वेद पावनं पुरुषान्प्रति
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम्
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः
तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत्
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्
तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः
त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात्
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत्
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि
यथा भगीरथो राजा राजानश्च गयादयः
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्
स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः
भवता संगमो यस्य भ्राता यस्य धनंजयः
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने
तदैव गन्तास्मि दृढमेष मे निश्चयः परः
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि
बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते
स दास्यति यथाकालमुचिता यस्य या भृतिः
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति
ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः
विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्