Vana Parva, Adhyaya 89, Verse 1
एवं संभाषमाणे तु धौम्ये कौरवनन्दन
लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं संभाषमाणे तु धौम्ये कौरवनन्दन
लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते
उदतिष्ठन्महाभागं दिवि शक्रमिवामराः
तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः
पप्रच्छागमने हेतुमटने च प्रयोजनम्
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान्
संचरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया
गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम्
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान्
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम्
आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति
सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम्
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु
यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत्
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम्
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम्
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः
विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान्
सुखं वसति बीभत्सुरनुजस्यानुजस्तव
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत्
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे
भवान्मनुष्यलोकाय गमिष्यति न संशयः
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः
सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः
तपसा तु त्वमात्मानं भ्रातृभिः सह योजय
तपसो हि परं नास्ति तपसा विन्दते महत्
अहं च कर्णं जानामि यथावद्भरतर्षभ
न स पार्थस्य संग्रामे कलामर्हति षोडशीम्
यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति
तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम्
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत
महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा