Mahabharata

Vana Parva, Adhyaya 88

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 88, Verse 1

उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै

तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च

Mahabharata

Vana Parva, Adhyaya 88, Verse 2

सरस्वती पुण्यवहा ह्रदिनी वनमालिनी

समुद्रगा महावेगा यमुना यत्र पाण्डव

Mahabharata

Vana Parva, Adhyaya 88, Verse 3

तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम्

यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः

Mahabharata

Vana Parva, Adhyaya 88, Verse 4

पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ

सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत

Mahabharata

Vana Parva, Adhyaya 88, Verse 5

एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर

गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः

Mahabharata

Vana Parva, Adhyaya 88, Verse 6

अग्नयः सहदेवेन ये चिता यमुनामनु

शतं शतसहस्राणि सहस्रशतदक्षिणाः

Mahabharata

Vana Parva, Adhyaya 88, Verse 7

तत्रैव भरतो राजा चक्रवर्ती महायशाः

विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत्

Mahabharata

Vana Parva, Adhyaya 88, Verse 8

कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा

अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः

Mahabharata

Vana Parva, Adhyaya 88, Verse 9

सरस्वती नदी सद्भिः सततं पार्थ पूजिता

वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा

Mahabharata

Vana Parva, Adhyaya 88, Verse 10

दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर

तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप

Mahabharata

Vana Parva, Adhyaya 88, Verse 11

वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ

यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम

Mahabharata

Vana Parva, Adhyaya 88, Verse 12

समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा

विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै

Mahabharata

Vana Parva, Adhyaya 88, Verse 13

ऋषिर्महान्महाभागो जमदग्निर्महायशाः

पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः

Mahabharata

Vana Parva, Adhyaya 88, Verse 14

यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम्

स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे

Mahabharata

Vana Parva, Adhyaya 88, Verse 15

अपि चात्र महाराज स्वयं विश्वावसुर्जगौ

इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः

Mahabharata

Vana Parva, Adhyaya 88, Verse 16

यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः

आगम्य सरितः सर्वा मधुना समतर्पयन्

Mahabharata

Vana Parva, Adhyaya 88, Verse 17

गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम्

किरातकिंनरावासं शैलं शिखरिणां वरम्

Mahabharata

Vana Parva, Adhyaya 88, Verse 18

बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर

पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम्

Mahabharata

Vana Parva, Adhyaya 88, Verse 19

सनत्कुमारः कौरव्य पुण्यं कनखलं तथा

पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः

Mahabharata

Vana Parva, Adhyaya 88, Verse 20

भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः

स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः

Mahabharata

Vana Parva, Adhyaya 88, Verse 21

यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ

नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः

Mahabharata

Vana Parva, Adhyaya 88, Verse 22

तस्यातियशसः पुण्यां विशालां बदरीमनु

आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः

Mahabharata

Vana Parva, Adhyaya 88, Verse 23

उष्णतोयवहा गङ्गा शीततोयवहापरा

सुवर्णसिकता राजन्विशालां बदरीमनु

Mahabharata

Vana Parva, Adhyaya 88, Verse 24

ऋषयो यत्र देवाश्च महाभागा महौजसः

प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम्

Mahabharata

Vana Parva, Adhyaya 88, Verse 25

यत्र नारायणो देवः परमात्मा सनातनः

तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च

Mahabharata

Vana Parva, Adhyaya 88, Verse 26

तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम्

तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः

Mahabharata

Vana Parva, Adhyaya 88, Verse 27

आदिदेवो महायोगी यत्रास्ते मधुसूदनः

पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा

Mahabharata

Vana Parva, Adhyaya 88, Verse 28

एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते

कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च

Mahabharata

Vana Parva, Adhyaya 88, Verse 29

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः

ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः

Mahabharata

Vana Parva, Adhyaya 88, Verse 30

चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः

भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि