Mahabharata

Vana Parva, Adhyaya 87

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 87, Verse 1

अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि

यानि तत्र पवित्राणि पुण्यान्यायतनानि च

Mahabharata

Vana Parva, Adhyaya 87, Verse 2

प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी

प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत

Mahabharata

Vana Parva, Adhyaya 87, Verse 3

निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः

जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः

Mahabharata

Vana Parva, Adhyaya 87, Verse 4

वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः

दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः

Mahabharata

Vana Parva, Adhyaya 87, Verse 5

तस्य शैलस्य शिखरे सरस्तत्र च धीमतः

प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम्

Mahabharata

Vana Parva, Adhyaya 87, Verse 6

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते

पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते

Mahabharata

Vana Parva, Adhyaya 87, Verse 7

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्

विश्वामित्रनदी पारा पुण्या परपुरंजय

Mahabharata

Vana Parva, Adhyaya 87, Verse 8

यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः

पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान्

Mahabharata

Vana Parva, Adhyaya 87, Verse 9

तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः

बहुमूलफलो वीर असितो नाम पर्वतः

Mahabharata

Vana Parva, Adhyaya 87, Verse 10

आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर

च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव

तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो

Mahabharata

Vana Parva, Adhyaya 87, Verse 11

जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्

आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः

Mahabharata

Vana Parva, Adhyaya 87, Verse 12

ततः पुण्यतमा राजन्सततं तापसायुता

केतुमाला च मेध्या च गङ्गारण्यं च भूमिप

ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम्

Mahabharata

Vana Parva, Adhyaya 87, Verse 13

पितामहसरः पुण्यं पुष्करं नाम भारत

वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः

Mahabharata

Vana Parva, Adhyaya 87, Verse 14

अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ

पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर

Mahabharata

Vana Parva, Adhyaya 87, Verse 15

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः

पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते