Vana Parva, Adhyaya 86, Verse 1
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत
विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत
विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी
बह्वारामा बहुजला तापसाचरिता शुभा
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे
मृगद्विजसमाकीर्णे तापसालयभूषिते
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता
अपि चात्र महायोगी मार्कण्डेयो महातपाः
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम्
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
माठरस्य वनं पुण्यं बहुमूलफलं शिवम्
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा
तापसानामरण्यानि कीर्तितानि यथाश्रुति
वेदी शूर्पारके तात जमदग्नेर्महात्मनः
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम्
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ
ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः
तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान्
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च
आश्रमान्सरितः शैलान्सरांसि च नराधिप
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर
तत्र पिण्डारकं नाम तापसाचरितं शुभम्
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान्
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः
साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते
पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम्
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः