Vana Parva, Adhyaya 85, Verse 1
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः
आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः
आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत्
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ
दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम्
रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत
यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक्
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
महानदी च तत्रैव तथा गयशिरोऽनघ
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः
यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो
सा च पुण्यजला यत्र फल्गुनामा महानदी
बहुमूलफला चापि कौशिकी भरतर्षभ
विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः
अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम्
कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः
ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत्
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम्
यत्रायजत भूतात्मा पूर्वमेव पितामहः
प्रयागमिति विख्यातं तस्माद्भरतसत्तम
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान्
हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः
अयजद्यत्र कौन्तेय पूर्वमेव पितामहः
यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम्
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः
केदारश्च मतङ्गस्य महानाश्रम उत्तमः
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान्
यत्र देववनं रम्यं तापसैरुपशोभितम्
बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च
प्राच्यां दिशि महाराज कीर्तितानि मया तव
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च