Mahabharata

Vana Parva, Adhyaya 83

Containing 114 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 83, Verse 1

अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम्

उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः

Mahabharata

Vana Parva, Adhyaya 83, Verse 2

रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा

तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्

Mahabharata

Vana Parva, Adhyaya 83, Verse 3

करतोयां समासाद्य त्रिरात्रोपोषितो नरः

अश्वमेधमवाप्नोति कृते पैतामहे विधौ

Mahabharata

Vana Parva, Adhyaya 83, Verse 4

गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः

Mahabharata

Vana Parva, Adhyaya 83, Verse 5

गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत

त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात्

Mahabharata

Vana Parva, Adhyaya 83, Verse 6

ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्

विरजं तीर्थमासाद्य विराजति यथा शशी

Mahabharata

Vana Parva, Adhyaya 83, Verse 7

प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति

गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः

Mahabharata

Vana Parva, Adhyaya 83, Verse 8

शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 9

शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन

वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 10

ऋषभं तीर्थमासाद्य कोशलायां नराधिप

वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः

Mahabharata

Vana Parva, Adhyaya 83, Verse 11

कोशलायां समासाद्य कालतीर्थ उपस्पृशेत्

वृषभैकादशफलं लभते नात्र संशयः

Mahabharata

Vana Parva, Adhyaya 83, Verse 12

पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः

गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 13

ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः

दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति

Mahabharata

Vana Parva, Adhyaya 83, Verse 14

ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्

रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 15

मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 16

श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत्

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति

Mahabharata

Vana Parva, Adhyaya 83, Verse 17

श्रीपर्वते महादेवो देव्या सह महाद्युतिः

न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः

Mahabharata

Vana Parva, Adhyaya 83, Verse 18

तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः

अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति

Mahabharata

Vana Parva, Adhyaya 83, Verse 19

ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम्

वाजपेयमवाप्नोति नाकपृष्ठे च मोदते

Mahabharata

Vana Parva, Adhyaya 83, Verse 20

ततो गच्छेत कावेरीं वृतामप्सरसां गणैः

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 21

ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत्

तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते

Mahabharata

Vana Parva, Adhyaya 83, Verse 22

अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्

समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्

Mahabharata

Vana Parva, Adhyaya 83, Verse 23

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः

भूतयक्षपिशाचाश्च किंनराः समहोरगाः

Mahabharata

Vana Parva, Adhyaya 83, Verse 24

सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा

सरितः सागराः शैला उपासन्त उमापतिम्

Mahabharata

Vana Parva, Adhyaya 83, Verse 25

तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः

दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति

उष्य द्वादशरात्रं तु कृतात्मा भवते नरः

Mahabharata

Vana Parva, Adhyaya 83, Verse 26

तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम्

त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्

Mahabharata

Vana Parva, Adhyaya 83, Verse 27

निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप

गायत्रीं पठते यस्तु योनिसंकरजस्तथा

गाथा वा गीतिका वापि तस्य संपद्यते नृप

Mahabharata

Vana Parva, Adhyaya 83, Verse 28

संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्

रूपस्य भागी भवति सुभगश्चैव जायते

Mahabharata

Vana Parva, Adhyaya 83, Verse 29

ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः

मयूरहंससंयुक्तं विमानं लभते नरः

Mahabharata

Vana Parva, Adhyaya 83, Verse 30

ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्

गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात्