Vana Parva, Adhyaya 82, Verse 1
ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम्
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः
आसप्तमं कुलं राजन्पुनीते नात्र संशयः
Containing 143 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम्
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः
आसप्तमं कुलं राजन्पुनीते नात्र संशयः
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम्
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
सिद्धचारणगन्धर्वाः किंनराः समहोरगाः
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी
प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः
कपिलानां सहस्रं च वाजिमेधं च विन्दति
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गाणपत्यं स लभते देहं त्यक्त्वा न संशयः
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्
शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत
आहारं सा कृतवती मासि मासि नराधिप
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः
आतिथ्यं च कृतं तेषां शाकेन किल भारत
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम्
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम्
तत्फलं तस्य भवति देव्याश्छन्देन भारत
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम्
यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा
वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान्
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः
मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः
महादेवप्रसादाद्धि गच्छेत परमां गतिम्
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम्
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम्
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः
पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्
देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
कपिलावटं च गच्छेत तीर्थसेवी नराधिप
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप
कपिलानां सहस्रस्य फलं प्राप्नोति मानवः
ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्