Vana Parva, Adhyaya 81, Verse 1
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः
Containing 178 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततो मचक्रुकं राजन्द्वारपालं महाबलम्
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम्
सततं नाम राजेन्द्र यत्र संनिहितो हरिः
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत्
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप
दशाश्वमेधिके स्नात्वा तदेव लभते फलम्
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम्
अग्निष्टोममवाप्नोति नागलोकं च विन्दति
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम्
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
ततः पञ्चनदं गत्वा नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
अश्विनोस्तीर्थमासाद्य रूपवानभिजायते
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत्
तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत्
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत्
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः
ततो मुञ्जवटं नाम महादेवस्य धीमतः
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात्
तत्रैव च महाराज यक्षी लोकपरिश्रुता
तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात्
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः
जामदग्न्येन रामेण आहृते वै महात्मना
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्
पितरस्तर्पिताः सर्वे तथैव च पितामहाः
ततस्ते पितरः प्रीता राममूचुर्महीपते
राम राम महाभाग प्रीताः स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण च ते विभो
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम्
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः