Vana Parva, Adhyaya 80, Verse 1
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः
Containing 133 sacred Sanskrit shlokas with multi-author commentaries and translations.
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः
यथा च वेदान्सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम्
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि
शृणु राजन्नवहितो यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा
शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ
उपस्थितं महाराज पूजयामास भारत
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत्
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम्
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते