Mahabharata

Vana Parva, Adhyaya 79

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 79, Verse 1

भगवन्काम्यकात्पार्थे गते मे प्रपितामहे

पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 2

स हि तेषां महेष्वासो गतिरासीदनीकजित्

आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे

Mahabharata

Vana Parva, Adhyaya 79, Verse 3

तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना

विनाभूता वने वीराः कथमासन्पितामहाः

Mahabharata

Vana Parva, Adhyaya 79, Verse 4

गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि

बभूवुः कौरवेयास्ते दुःखशोकपरायणाः

Mahabharata

Vana Parva, Adhyaya 79, Verse 5

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः

अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः

Mahabharata

Vana Parva, Adhyaya 79, Verse 6

वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा

कुबेरेण यथा हीनं वनं चैत्ररथं तथा

Mahabharata

Vana Parva, Adhyaya 79, Verse 7

तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय

मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा

Mahabharata

Vana Parva, Adhyaya 79, Verse 8

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः

निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान्

Mahabharata

Vana Parva, Adhyaya 79, Verse 9

नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः

विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन्

Mahabharata

Vana Parva, Adhyaya 79, Verse 10

एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः

अहृष्टमनसः सर्वे गते राजन्धनंजये

Mahabharata

Vana Parva, Adhyaya 79, Verse 11

अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम्

स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 79, Verse 12

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना

तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे

शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 13

बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्

न तथा रमणीयं मे तमृते सव्यसाचिनम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 14

नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम्

तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे

Mahabharata

Vana Parva, Adhyaya 79, Verse 15

यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः

न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 16

तथा लालप्यमानां तां निशम्य परवीरहा

भीमसेनो महाराज द्रौपदीमिदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 79, Verse 17

मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे

तन्मे प्रीणाति हृदयममृतप्राशनोपमम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 18

यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ

मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ

Mahabharata

Vana Parva, Adhyaya 79, Verse 19

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ

तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 20

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा

सुराणामपि यत्तानां पृतनासु न बिभ्यति

Mahabharata

Vana Parva, Adhyaya 79, Verse 21

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः

मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 22

तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्

शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 23

य उदीचीं दिशं गत्वा जित्वा युधि महाबलान्

गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः

Mahabharata

Vana Parva, Adhyaya 79, Verse 24

राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः

प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ

Mahabharata

Vana Parva, Adhyaya 79, Verse 25

तमृते भीमधन्वानं भीमादवरजं वने

कामये काम्यके वासं नेदानीममरोपमम्

Mahabharata

Vana Parva, Adhyaya 79, Verse 26

यो धनानि च कन्याश्च युधि जित्वा महारथान्

आजहार पुरा राज्ञे राजसूये महाक्रतौ

Mahabharata

Vana Parva, Adhyaya 79, Verse 27

यः समेतान्मृधे जित्वा यादवानमितद्युतिः

सुभद्रामाजहारैको वासुदेवस्य संमते

Mahabharata

Vana Parva, Adhyaya 79, Verse 28

तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने

हृदयं मे महाराज न शाम्यति कदाचन

Mahabharata

Vana Parva, Adhyaya 79, Verse 29

वनादस्माद्विवासं तु रोचयेऽहमरिंदम

न हि नस्तमृते वीरं रमणीयमिदं वनम्