Mahabharata

Vana Parva, Adhyaya 78

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 78, Verse 1

प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे

महत्या सेनया राजा दमयन्तीमुपानयत्

Mahabharata

Vana Parva, Adhyaya 78, Verse 2

दमयन्तीमपि पिता सत्कृत्य परवीरहा

प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः

Mahabharata

Vana Parva, Adhyaya 78, Verse 3

आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः

वर्तयामास मुदितो देवराडिव नन्दने

Mahabharata

Vana Parva, Adhyaya 78, Verse 4

तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु

पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः

Mahabharata

Vana Parva, Adhyaya 78, Verse 5

ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः

तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात्

Mahabharata

Vana Parva, Adhyaya 78, Verse 6

दुःखमेतादृशं प्राप्तो नलः परपुरंजयः

देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 78, Verse 7

एकाकिनैव सुमहन्नलेन पृथिवीपते

दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः

Mahabharata

Vana Parva, Adhyaya 78, Verse 8

त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव

रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन्

Mahabharata

Vana Parva, Adhyaya 78, Verse 9

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः

नित्यमन्वास्यसे राजंस्तत्र का परिदेवना

Mahabharata

Vana Parva, Adhyaya 78, Verse 10

इतिहासमिमं चापि कलिनाशनमुच्यते

शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते

Mahabharata

Vana Parva, Adhyaya 78, Verse 11

अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा

तस्याये च व्यये चैव समाश्वसिहि मा शुचः

Mahabharata

Vana Parva, Adhyaya 78, Verse 12

ये चेदं कथयिष्यन्ति नलस्य चरितं महत्

श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति

अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति

Mahabharata

Vana Parva, Adhyaya 78, Verse 13

इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्

पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम्

अरोगः प्रीतिमांश्चैव भविष्यति न संशयः

Mahabharata

Vana Parva, Adhyaya 78, Verse 14

भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः

अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव

Mahabharata

Vana Parva, Adhyaya 78, Verse 15

वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम

उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते

Mahabharata

Vana Parva, Adhyaya 78, Verse 16

ततो हृष्टमना राजा बृहदश्वमुवाच ह

भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः

Mahabharata

Vana Parva, Adhyaya 78, Verse 17

ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने

दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः

Mahabharata

Vana Parva, Adhyaya 78, Verse 18

बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्

वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम्

Mahabharata

Vana Parva, Adhyaya 78, Verse 19

ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः

तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः

Mahabharata

Vana Parva, Adhyaya 78, Verse 20

इति पार्थो महाबाहुर्दुरापं तप आस्थितः

न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति

Mahabharata

Vana Parva, Adhyaya 78, Verse 21

यथा धनंजयः पार्थस्तपस्वी नियतव्रतः

मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव

Mahabharata

Vana Parva, Adhyaya 78, Verse 22

तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने

अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्

Mahabharata

Vana Parva, Adhyaya 78, Verse 23

दह्यमानेन तु हृदा शरणार्थी महावने

ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः