Vana Parva, Adhyaya 77, Verse 1
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
पुरादल्पपरीवारो जगाम निषधान्प्रति
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः
पुरादल्पपरीवारो जगाम निषधान्प्रति
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः
स कम्पयन्निव महीं त्वरमाणो महीपतिः
प्रविवेशातिसंरब्धस्तरसैव महामनाः
ततः पुष्करमासाद्य वीरसेनसुतो नलः
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम्
दमयन्ती च यच्चान्यन्मया वसु समर्जितम्
एष वै मम संन्यासस्तव राज्यं तु पुष्कर
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः
एकपाणेन भद्रं ते प्राणयोश्च पणावहे
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा
येन तेनाप्युपायेन वृद्धानामिति शासनम्
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्
दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण
धनेनानेन वैदर्भी जितेन समलंकृता
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च
एकपाणेन भद्रं ते नलेन स पराजितः
सरत्नकोशनिचयः प्राणेन पणितोऽपि च
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा
कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते
तथैव च मम प्रीतिस्त्वयि वीर न संशयः
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति
पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः
प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः
महत्या सेनया राजन्विनीतैः परिचारकैः
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम्
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः