Mahabharata

Vana Parva, Adhyaya 76

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 76, Verse 1

अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः

वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्

Mahabharata

Vana Parva, Adhyaya 76, Verse 2

ततोऽभिवादयामास प्रयतः श्वशुरं नलः

तस्यानु दमयन्ती च ववन्दे पितरं शुभा

Mahabharata

Vana Parva, Adhyaya 76, Verse 3

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा

यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः

नलेन सहितां तत्र दमयन्तीं पतिव्रताम्

Mahabharata

Vana Parva, Adhyaya 76, Verse 4

तामर्हणां नलो राजा प्रतिगृह्य यथाविधि

परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 76, Verse 5

ततो बभूव नगरे सुमहान्हर्षनिस्वनः

जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम्

Mahabharata

Vana Parva, Adhyaya 76, Verse 6

अशोभयच्च नगरं पताकाध्वजमालिनम्

सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा

Mahabharata

Vana Parva, Adhyaya 76, Verse 7

द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः

अर्चितानि च सर्वाणि देवतायतनानि च

Mahabharata

Vana Parva, Adhyaya 76, Verse 8

ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्

दमयन्त्या समायुक्तं जहृषे च नराधिपः

Mahabharata

Vana Parva, Adhyaya 76, Verse 9

तमानाय्य नलो राजा क्षमयामास पार्थिवम्

स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः

Mahabharata

Vana Parva, Adhyaya 76, Verse 10

स सत्कृतो महीपालो नैषधं विस्मयान्वितः

दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत

Mahabharata

Vana Parva, Adhyaya 76, Verse 11

कच्चित्तु नापराधं ते कृतवानस्मि नैषध

अज्ञातवासं वसतो मद्गृहे निषधाधिप

Mahabharata

Vana Parva, Adhyaya 76, Verse 12

यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित्

मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि

Mahabharata

Vana Parva, Adhyaya 76, Verse 13

न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव

कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव

Mahabharata

Vana Parva, Adhyaya 76, Verse 14

पूर्वं ह्यसि सखा मेऽसि संबन्धी च नराधिप

अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि

Mahabharata

Vana Parva, Adhyaya 76, Verse 15

सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि

न तथा स्वगृहे राजन्यथा तव गृहे सदा

Mahabharata

Vana Parva, Adhyaya 76, Verse 16

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति

तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव

Mahabharata

Vana Parva, Adhyaya 76, Verse 17

एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा

Mahabharata

Vana Parva, Adhyaya 76, Verse 18

ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः

सूतमन्यमुपादाय ययौ स्वपुरमेव हि

Mahabharata

Vana Parva, Adhyaya 76, Verse 19

ऋतुपर्णे प्रतिगते नलो राजा विशां पते

नगरे कुण्डिने कालं नातिदीर्घमिवावसत्