Vana Parva, Adhyaya 75, Verse 1
न मामर्हसि कल्याण पापेन परिशङ्कितुम्
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
न मामर्हसि कल्याण पापेन परिशङ्कितुम्
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः
वाक्यानि मम गाथाभिर्गायमाना दिशो दश
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते
उपायोऽयं मया दृष्टो नैषधानयने तव
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते
समर्थो योजनशतं गन्तुमश्वैर्नराधिप
तथा चेमौ महीपाल भजेऽहं चरणौ तव
यथा नासत्कृतं किंचिन्मनसापि चराम्यहम्
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
तथा चरति तिग्मांशुः परेण भुवनं सदा
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम्
एवमुक्ते ततो वायुरन्तरिक्षादभाषत
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्
उपायो विहितश्चायं त्वदर्थमतुलोऽनया
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम्
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता
भैमीमपि नलो राजा भ्राजमानो यथा पुरा
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना
परीता तेन दुःखेन निशश्वासायतेक्षणा
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम्
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्
वने विचरितं सर्वमूषतुर्मुदितौ नृप
स चतुर्थे ततो वर्षे संगम्य सह भार्यया
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम्
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा
सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा
रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन