Vana Parva, Adhyaya 74, Verse 1
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका
परीक्षितो मे बहुशो बाहुको नलशङ्कया
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम्
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि
विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम्
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्
दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी
ततः काषायवसना जटिला मलपङ्किनी
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्
अनागसं प्रियां भार्यां विजने श्रममोहिताम्
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम्
किं नु तस्य मया कार्यमपराद्धं महीपतेः
यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम्
साक्षाद्देवानपाहाय वृतो यः स मया पुरा
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम्
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम्
भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम्
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत्
परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत्
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम्
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा
वनस्थया दुःखितया शोचन्त्या मां विवाससम्
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः
त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः
मम च व्यवसायेन तपसा चैव निर्जितः
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे
विमुच्य मां गतः पापः स ततोऽहमिहागतः
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः
श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्