Mahabharata

Vana Parva, Adhyaya 73

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 73, Verse 1

दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा

शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 2

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके

अब्रुवाणा समीपस्था चरितान्यस्य लक्षय

Mahabharata

Vana Parva, Adhyaya 73, Verse 3

यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि

तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 4

न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि

याचते न जलं देयं सम्यगत्वरमाणया

Mahabharata

Vana Parva, Adhyaya 73, Verse 5

एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय

यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम

Mahabharata

Vana Parva, Adhyaya 73, Verse 6

दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी

निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 7

सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्

निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 8

दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित्

दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः

Mahabharata

Vana Parva, Adhyaya 73, Verse 9

ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्

तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्

संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 10

ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः

प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 11

तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः

स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा

Mahabharata

Vana Parva, Adhyaya 73, Verse 12

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः

तृणमुष्टिं समादाय आविध्यैनं समादधत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 13

अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः

तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता

Mahabharata

Vana Parva, Adhyaya 73, Verse 14

अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया

यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे

Mahabharata

Vana Parva, Adhyaya 73, Verse 15

छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्

अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 16

यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ

Mahabharata

Vana Parva, Adhyaya 73, Verse 17

भूय एव सुगन्धीनि हृषितानि भवन्ति च

एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता

Mahabharata

Vana Parva, Adhyaya 73, Verse 18

दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्

अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 19

सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्

केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 20

पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्

महानसाच्छृतं मांसं समादायैहि भामिनि

Mahabharata

Vana Parva, Adhyaya 73, Verse 21

सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च

अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी

दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन

Mahabharata

Vana Parva, Adhyaya 73, Verse 22

सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा

प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता

Mahabharata

Vana Parva, Adhyaya 73, Verse 23

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः

मिथुनं प्रेषयामास केशिन्या सह भारत

Mahabharata

Vana Parva, Adhyaya 73, Verse 24

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः

अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 25

बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ

भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह

Mahabharata

Vana Parva, Adhyaya 73, Verse 26

नैषधो दर्शयित्वा तु विकारमसकृत्तदा

उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 73, Verse 27

इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः

ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्

Mahabharata

Vana Parva, Adhyaya 73, Verse 28

बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः

वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते