Vana Parva, Adhyaya 72, Verse 1
गच्छ केशिनि जानीहि क एष रथवाहकः
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
गच्छ केशिनि जानीहि क एष रथवाहकः
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते
अत्र मे महती शङ्का भवेदेष नलो नृपः
तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा
प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्
दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्
दमयन्त्या वचः साधु निबोध पुरुषर्षभ
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना
द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः
स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः
कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः
गतस्ततो यथाकामं नैष जानाति नैषधम्
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा
न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित्
योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा
इमानि नारीवाक्यानि कथयानः पुनः पुनः
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी
दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव
प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः
बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत्
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन
प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः
न बाष्पमशकत्सोढुं प्ररुरोद च भारत
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्
तत्सर्वं कथितं चैव विकारं चैव तस्य तम्