Mahabharata

Vana Parva, Adhyaya 71

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 71, Verse 1

ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्

ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्

Mahabharata

Vana Parva, Adhyaya 71, Verse 2

स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्

नादयन्रथघोषेण सर्वाः सोपदिशो दश

Mahabharata

Vana Parva, Adhyaya 71, Verse 3

ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः

श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ

Mahabharata

Vana Parva, Adhyaya 71, Verse 4

दमयन्ती च शुश्राव रथघोषं नलस्य तम्

यथा मेघस्य नदतो गम्भीरं जलदागमे

Mahabharata

Vana Parva, Adhyaya 71, Verse 5

नलेन संगृहीतेषु पुरेव नलवाजिषु

सदृशं रथनिर्घोषं मेने भैमी तथा हयाः

Mahabharata

Vana Parva, Adhyaya 71, Verse 6

प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः

हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः

Mahabharata

Vana Parva, Adhyaya 71, Verse 7

ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा

प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह

Mahabharata

Vana Parva, Adhyaya 71, Verse 8

यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्

मम ह्लादयते चेतो नल एष महीपतिः

Mahabharata

Vana Parva, Adhyaya 71, Verse 9

अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि

असंख्येयगुणं वीरं विनशिष्याम्यसंशयम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 10

यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्

प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 11

यदि मां मेघनिर्घोषो नोपगच्छति नैषधः

अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 12

यदि मां सिंहविक्रान्तो मत्तवारणवारणः

नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 13

न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम्

न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः

Mahabharata

Vana Parva, Adhyaya 71, Verse 14

प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः

रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः

Mahabharata

Vana Parva, Adhyaya 71, Verse 15

गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्

हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 16

एवं विलपमाना सा नष्टसंज्ञेव भारत

आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया

Mahabharata

Vana Parva, Adhyaya 71, Verse 17

ततो मध्यमकक्षायां ददर्श रथमास्थितम्

ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 18

ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्

हयांस्तानवमुच्याथ स्थापयामासतू रथम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 19

सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः

उपतस्थे महाराज भीमं भीमपराक्रमम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 20

तं भीमः प्रतिजग्राह पूजया परया ततः

अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति

Mahabharata

Vana Parva, Adhyaya 71, Verse 21

किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत

नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 22

ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः

राजानं राजपुत्रं वा न स्म पश्यति कंचन

नैव स्वयंवरकथां न च विप्रसमागमम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 23

ततो विगणयन्राजा मनसा कोसलाधिपः

आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः

Mahabharata

Vana Parva, Adhyaya 71, Verse 24

राजापि च स्मयन्भीमो मनसाभिविचिन्तयत्

अधिकं योजनशतं तस्यागमनकारणम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 25

ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्

अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्

Mahabharata

Vana Parva, Adhyaya 71, Verse 26

नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्

विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 71, Verse 27

स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः

राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्

Mahabharata

Vana Parva, Adhyaya 71, Verse 28

ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे

बाहुको रथमास्थाय रथशालामुपागमत्

Mahabharata

Vana Parva, Adhyaya 71, Verse 29

स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः

स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्

Mahabharata

Vana Parva, Adhyaya 71, Verse 30

दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम्

सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम्