Vana Parva, Adhyaya 70, Verse 1
स नदीः पर्वतांश्चैव वनानि च सरांसि च
अचिरेणातिचक्राम खेचरः खे चरन्निव
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
स नदीः पर्वतांश्चैव वनानि च सरांसि च
अचिरेणातिचक्राम खेचरः खे चरन्निव
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः
उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः
ततः स त्वरमाणस्तु पटे निपतिते तदा
ग्रहीष्यामीति तं राजा नलमाह महामनाः
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्
वार्ष्णेयो यावदेतं मे पटमानयतामिति
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव
योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः
आससाद वने राजन्फलवन्तं बिभीतकम्
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत
ममापि सूत पश्य त्वं संख्याने परमं बलम्
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक
पतितानि च यान्यत्र तत्रैकमधिकं शतम्
एकपत्राधिकं पत्रं फलमेकं च बाहुक
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन
अथ ते गणिते राजन्विद्यते न परोक्षता
प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम्
अहं हि नाभिजानामि भवेदेवं न वेति च
संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम्
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान्
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे
अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम्
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम
अकाम इव तं राजा गणयस्वेत्युवाच ह
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्
गणयित्वा यथोक्तानि तावन्त्येव फलानि च
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप
तमुवाच ततो राजा त्वरितो गमने तदा
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम्
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः
स तेन कर्शितो राजा दीर्घकालमनात्मवान्
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्