Mahabharata

Vana Parva, Adhyaya 69

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 69, Verse 1

श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः

सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत

Mahabharata

Vana Parva, Adhyaya 69, Verse 2

विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम्

एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक

Mahabharata

Vana Parva, Adhyaya 69, Verse 3

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह

व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः

Mahabharata

Vana Parva, Adhyaya 69, Verse 4

दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता

अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्

Mahabharata

Vana Parva, Adhyaya 69, Verse 5

नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी

मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना

Mahabharata

Vana Parva, Adhyaya 69, Verse 6

स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः

स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा

मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा

Mahabharata

Vana Parva, Adhyaya 69, Verse 7

न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः

यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम्

ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 8

इति निश्चित्य मनसा बाहुको दीनमानसः

कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 9

प्रतिजानामि ते सत्यं गमिष्यसि नराधिप

एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप

Mahabharata

Vana Parva, Adhyaya 69, Verse 10

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः

अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया

Mahabharata

Vana Parva, Adhyaya 69, Verse 11

स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः

अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्

Mahabharata

Vana Parva, Adhyaya 69, Verse 12

तेजोबलसमायुक्तान्कुलशीलसमन्वितान्

वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्

शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः

Mahabharata

Vana Parva, Adhyaya 69, Verse 13

दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः

किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 14

कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम

महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः

Mahabharata

Vana Parva, Adhyaya 69, Verse 15

एते हया गमिष्यन्ति विदर्भान्नात्र संशयः

अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते

Mahabharata

Vana Parva, Adhyaya 69, Verse 16

त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक

यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय

Mahabharata

Vana Parva, Adhyaya 69, Verse 17

ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्

योजयामास कुशलो जवयुक्तान्रथे नरः

Mahabharata

Vana Parva, Adhyaya 69, Verse 18

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः

अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः

Mahabharata

Vana Parva, Adhyaya 69, Verse 19

ततो नरवरः श्रीमान्नलो राजा विशां पते

सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्

Mahabharata

Vana Parva, Adhyaya 69, Verse 20

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः

सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 21

ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः

समुत्पेतुरिवाकाशं रथिनं मोहयन्निव

Mahabharata

Vana Parva, Adhyaya 69, Verse 22

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः

अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ

Mahabharata

Vana Parva, Adhyaya 69, Verse 23

रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्

वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 24

किं नु स्यान्मातलिरयं देवराजस्य सारथिः

तथा हि लक्षणं वीरे बाहुके दृश्यते महत्

Mahabharata

Vana Parva, Adhyaya 69, Verse 25

शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्

मानुषं समनुप्राप्तो वपुः परमशोभनम्

Mahabharata

Vana Parva, Adhyaya 69, Verse 26

उताहोस्विद्भवेद्राजा नलः परपुरंजयः

सोऽयं नृपतिरायात इत्येवं समचिन्तयत्

Mahabharata

Vana Parva, Adhyaya 69, Verse 27

अथ वा यां नलो वेद विद्यां तामेव बाहुकः

तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च

Mahabharata

Vana Parva, Adhyaya 69, Verse 28

अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च

नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति

Mahabharata

Vana Parva, Adhyaya 69, Verse 29

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्

दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः

Mahabharata

Vana Parva, Adhyaya 69, Verse 30

भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति

प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः