Vana Parva, Adhyaya 68, Verse 1
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्
नैषधं मृगयानेन दमयन्ति दिवानिशम्
अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः
श्रावितश्च मया वाक्यं त्वदीयं स महाजने
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः
न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत्
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः
शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन
विषमस्थेन मूढेन परिभ्रष्टसुखेन च
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत
अयमर्थो न संवेद्यो भीमे मातः कथंचन
त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम्
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्
तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि
यथा चाहं समानीता सुदेवेनाशु बान्धवान्
तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम्
समानेतुं नलं मातरयोध्यां नगरीमितः
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम्
अर्चयामास वैदर्भी धनेनातीव भामिनी
नले चेहागते विप्र भूयो दास्यामि ते वसु
त्वया हि मे बहु कृतं यथा नान्यः करिष्यति
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम
एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः
गृहानुपययौ चापि कृतार्थः स महामनाः
ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर
अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
यथा च गणितः कालः श्वोभूते स भविष्यति
यदि संभावनीयं ते गच्छ शीघ्रमरिंदम
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति
न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत्
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा