Mahabharata

Vana Parva, Adhyaya 67

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 67, Verse 1

मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते

नरवीरस्य वै तस्य नलस्यानयने यत

Mahabharata

Vana Parva, Adhyaya 67, Verse 2

दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता

बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत्

Mahabharata

Vana Parva, Adhyaya 67, Verse 3

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा

हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह

Mahabharata

Vana Parva, Adhyaya 67, Verse 4

ततो भीमं महाराज भार्या वचनमब्रवीत्

दमयन्ती तव सुता भर्तारमनुशोचति

Mahabharata

Vana Parva, Adhyaya 67, Verse 5

अपकृष्य च लज्जां मां स्वयमुक्तवती नृप

प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने

Mahabharata

Vana Parva, Adhyaya 67, Verse 6

तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः

प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने

Mahabharata

Vana Parva, Adhyaya 67, Verse 7

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः

दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन्

Mahabharata

Vana Parva, Adhyaya 67, Verse 8

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः

ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 67, Verse 9

क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम

उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय

Mahabharata

Vana Parva, Adhyaya 67, Verse 10

सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी

दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता

Mahabharata

Vana Parva, Adhyaya 67, Verse 11

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव

प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च

Mahabharata

Vana Parva, Adhyaya 67, Verse 12

एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि

वायुना धूयमानो हि वनं दहति पावकः

Mahabharata

Vana Parva, Adhyaya 67, Verse 13

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा

तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव

Mahabharata

Vana Parva, Adhyaya 67, Verse 14

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा

संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्

Mahabharata

Vana Parva, Adhyaya 67, Verse 15

स कुरुष्व महेष्वास दयां मयि नरर्षभ

आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम्

Mahabharata

Vana Parva, Adhyaya 67, Verse 16

एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन

स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते

Mahabharata

Vana Parva, Adhyaya 67, Verse 17

यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः

तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः

Mahabharata

Vana Parva, Adhyaya 67, Verse 18

यथा च वो न जानीयाच्चरतो भीमशासनात्

पुनरागमनं चैव तथा कार्यमतन्द्रितैः

Mahabharata

Vana Parva, Adhyaya 67, Verse 19

यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्

यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम्

Mahabharata

Vana Parva, Adhyaya 67, Verse 20

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्

नलं मृगयितुं राजंस्तथा व्यसनिनं तदा

Mahabharata

Vana Parva, Adhyaya 67, Verse 21

ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्

अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः

Mahabharata

Vana Parva, Adhyaya 67, Verse 22

तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते

श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम्