Vana Parva, Adhyaya 65, Verse 1
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया
संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारं च दास्यामि ग्रामं नगरसंमितम्
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्
पिनद्धां धूमजालेन प्रभामिव विभावसोः
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास भैमीति कारणैरुपपादयन्
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम्
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च
देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया
भर्ता नाम परं नार्या भूषणं भूषणैर्विना
एषा विरहिता तेन शोभनापि न शोभते
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः
धारयत्यात्मनो देहं न शोकेनावसीदति
इमामसितकेशान्तां शतपत्रायतेक्षणाम्
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान्
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्