Vana Parva, Adhyaya 64, Verse 1
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम्
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम्
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि
शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः
स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन्
सायं सायं सदा चेमं श्लोकमेकं जगाद ह
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी
स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्
आसीद्बहुमता नारी तस्या दृढतरं च सः
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत
विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचन
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन्
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने
त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति
एका बालानभिज्ञा च मार्गाणामतथोचिता
क्षुत्पिपासापरीता च दुष्करं यदि जीवति
श्वापदाचरिते नित्यं वने महति दारुणे
त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्
अज्ञातवासमवसद्राज्ञस्तस्य निवेशने