Vana Parva, Adhyaya 63, Verse 1
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते
ददर्श दावं दह्यन्तं महान्तं गहने वने
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते
ददर्श दावं दह्यन्तं महान्तं गहने वने
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित्
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्
ददर्श नागराजानं शयानं कुण्डलीकृतम्
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः
तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम्
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्
तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम्
ततः संख्यातुमारब्धमदशद्दशमे पदे
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः
स्वरूपधारिणं नागं ददर्श च महीपतिः
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्
मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति
यत्कृते चासि विकृतो दुःखेन महता नल
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति
अनागा येन निकृतस्त्वमनर्हो जनाधिप
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप
राजन्विषनिमित्ता च न ते पीडा भविष्यति
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्
अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे
इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा
एवं नलं समादिश्य वासो दत्त्वा च कौरव
नागराजस्ततो राजंस्तत्रैवान्तरधीयत